|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.21. अध्यायः 021
Mahabharata - Bhishma Parva - Chapter Topics
परसेनादर्शनचकितं युधिष्ठिरं प्रत्यर्जुनेन सयुक्तिनिरूपणं समाश्वासनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-21-0x(3997)(39386)
बृहतीं धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम्।
विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 6-21-1(39387)
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः।
अभेद्यमिव संप्रेक्ष्य विवर्णोऽर्जुनमब्रवीत् ॥ 6-21-2(39388)
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे ।
धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ॥ 6-21-3(39389)
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्षिणा ।
कल्पितः शास्त्रदृष्टेन विधिना भूरिवर्चसा ॥ 6-21-4(39390)
ते वयं संशय्नं प्राप्ताः ससैन्याः शत्रुकर्षण ।
कथमस्मान्महाव्यूहादुत्थानं नो भविष्यति ॥ 6-21-5(39391)
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा ।
विषण्णमिव संप्रेक्ष्य तव राजन्ननीकिनीम् ॥ 6-21-6(39392)
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि ।
जयन्त्यल्पतरा येन तन्निबोध विशांपते ॥ 6-21-7(39393)
तत्र ते कारणं राजन्प्रवक्ष्याम्यनसूयवे ।
नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ॥ 6-21-8(39394)
एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्।
पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ॥ 6-21-9(39395)
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः ।
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ॥ 6-21-10(39396)
त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः ।
युध्यध्वमतहंकारा यतो धर्मस्ततो जयः ॥ 6-21-11(39397)
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः।
यथा तु नारदः प्राह यतः कृष्णस्ततो जयः ॥ 6-21-12(39398)
गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम् ।
तद्यथा विजयश्चास्य सन्नतिश्चापरो गुणः ॥ 6-21-13(39399)
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः।
पुरुषः सनातनमयो यतः कृष्णस्ततो जयः ॥ 6-21-14(39400)
पुरा ह्येष हरिर्भूत्वा विकुण्ठोऽकुण्ठसायकः।
सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ॥ 6-21-15(39401)
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् ।
तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ॥ 6-21-16(39402)
तस्य ते न व्यथां कांचिदिह पश्यामि भारत ।
यस्य ते यजमाशास्ते विश्वभुक् त्रिदिवेश्वरः ॥ ॥ 6-21-17(39403)
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकविंशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-21-13 गुणभूतो दासभूतः ॥ 6-21-15 अकुण्ठसायकः अप्रतिहतायुधः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|